|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.118. अध्यायः 118
Mahabharata - Vana Parva - Chapter Topics
अकृतव्रणेन युधिष्ठिरंप्रति पितृवधमर्षात् त्रिः सप्तकृत्वः पृथिव्या निःक्षत्रियीकरणादिरामचरित्रकथनम् ॥ 1 .। युधिष्ठिरेण परेद्युश्चतुर्दश्यां संनिहितपरशुरामपूजनादिपूर्वकं महेन्द्रशैलात्पुरः प्रस्थानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
राम उवाच। 3-118-0x(2090)(20559)
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः।
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥ 3-118-1(20560)
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे।
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥ 3-118-2(20561)
किंनु तैर्न कृतंपापं यैर्बवांस्तपसि स्तितः।
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥ 3-118-3(20562)
किंनु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च।
अयुध्यमानं धर्मज्ञमेकं हत्वाऽनपत्रपाः ॥ 3-118-4(20563)
अकृतव्रण उवाच। 3-118-5x(2091)
लालप्यैवं सकुस्न्णं बहु नानाविधं नृप।
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥ 3-118-5(20564)
ददाह पितरं चाग्नौ रामः परपुरंजयः।
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥ 3-118-6(20565)
संक्रुद्धोऽतिबलः सङ्ख्ये शस्त्रमादाय वीर्यवान्।
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ॥ 3-118-7(20566)
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ।
तांश्च सर्वानवामृद्गाद्रामः प्रहरतांवरः ॥ 3-118-8(20567)
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रियां प्रभुः।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ 3-118-9(20568)
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः।
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥ 3-118-10(20569)
ततो यज्ञेन महता जामदग्न्यः प्रतापवान्।
तर्पयामास देवेन्द्रमृत्विग्भ्यः प्रददौ महीम् ॥ 3-118-11(20570)
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने।
दशव्यामायतां कृत्वा नवोत्सेधां विशांपते ॥ 3-118-12(20571)
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा।
व्यभजंस्ते तदा राजन्प्रख्याताः खाण्डवायनाः ॥ 3-118-13(20572)
स प्रदाय महीं तस्मै कश्यपाय महात्मने।
`तपः सुमहदास्थाय महाबलपराक्रमः'।
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥ 3-118-14(20573)
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः।
पृथिवी चापि विजिता रामेणामिततेजसा ॥ 3-118-15(20574)
वैशम्पायन उवाच। 3-118-16x(2092)
ततश्चतुर्दशीं रामः समयेन महामनाः।
दर्शयामास तान्विप्रान्धर्मराजं ज सानुजम् ॥ 3-118-16(20575)
स तमानर्च राजेन्द्र भ्रातृभिः सहितः प्रभुः।
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥ 3-118-17(20576)
अर्जित्वा जामदग्न्यं स पूजितस्तेन चोदितः।
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ॥ 3-118-18(20577)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-118-12 दशव्यामायतां व्यामो हस्तचतुष्टयम्। चत्वारिंशद्धस्तायामविस्ताराम्। नवोत्सेधां षट्रत्रिंशद्धस्तोच्छ्रायां चेत्यर्थः 3-118-17 आनर्च अर्चितवान् ॥ 3-118-18 उष्य उषित्वा ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|